|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.285. अध्यायः 285
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वृत्रगीतानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-285-0x(6370)(76632)
धन्याधन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह॥ 12-285-1(76633)
लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह॥ 12-285-2(76634)
कदा वयं करिष्यामः संन्यासं दुःखभेषजम्।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम॥ 12-285-3(76635)
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः।
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिश्च पितामह॥ 12-285-4(76636)
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः।
कदा वयं गमिष्यामो राज्यं हित्वा परंतप॥ 12-285-5(76637)
भीष्म उवाच। 12-285-6x(6371)
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम्।
पुनर्भावोपि संख्यातो नास्ति किंचिदिहाचलम्॥ 12-285-6(76638)
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः।
उद्योगादेव धर्मज्ञाः कालेनैव गमिष्यथ॥ 12-285-7(76639)
नेशेऽयं सततं देही नृपते पुण्यपापयोः।
तत एव समुत्थेन तमसा रुध्यतेऽपि च॥ 12-285-8(76640)
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः॥ 12-285-9(76641)
तथा कर्मफलैर्देही रञ्जितस्तमसा वृतः।
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते॥ 12-285-10(76642)
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः।
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्॥ 12-285-11(76643)
अयत्नसाध्यं मुनयो वदन्ति
चे चापि मुक्तास्तदुपासितव्याः।
त्वया च लोकेन च सामरेण
तस्मान्न शाम्यन्ति महर्षिसङ्घाः॥ 12-285-12(76644)
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्॥ 12-285-13(76645)
निर्जितेनासहायेन हृतराज्येन भारत।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्॥ 12-285-14(76646)
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्।
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव॥ 12-285-15(76647)
वृत्र उवाच। 12-285-16x(6372)
सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम्।
न शोचामि न हृष्यामि भूतानामागतिं गतिम्॥ 12-285-16(76648)
कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः।
परिहृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः॥ 12-285-17(76649)
क्षपयित्वा तु तं कालं गणितं कालचोदिताः।
सावशेषेण कालेन संधावन्ति पुनःपुनः॥ 12-285-18(76650)
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च।
निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः॥ 12-285-19(76651)
एवं संसरमाणानि ह्यहं भूतानि दृष्टवान्।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्॥ 12-285-20(76652)
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च।
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव च॥ 12-285-21(76653)
कृतान्तविधिसंयुक्तः सर्वो लोकः प्रपद्यते।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा॥ 12-285-22(76654)
कालसङ्ख्यानसङ्ख्येयं सृष्टिस्थितिपरायणम्।
तं भाषमाणं भगवानुशना प्रत्यभाषत।
इमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषते॥ 12-285-23(76655)
वृत्र उवाच। 12-285-24x(6373)
प्रत्यक्षमेतद्भवतस्तथाऽन्येषां मनीषिणाम्।
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः॥ 12-285-24(76656)
गन्धानादाय भूतानां रसांश्च विविधानपि।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा॥ 12-285-25(76657)
ज्वालामालापरिक्षिप्तो वैहायसगतिस्तथा।
अजेयः सर्वभूतानामासं नित्यमपेतभीः॥ 12-285-26(76658)
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम्॥ 12-285-27(76659)
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः॥ 12-285-28(76660)
वैकुण्ठः पुरुषोऽनन्तः शुक्लो विष्णुः सनातनः।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः॥ 12-285-29(76661)
नूनं तु तस्य तपसः सावशेषं ममास्ति वै।
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम्॥ 12-285-30(76662)
ऐश्वर्यं वै महद्ब्रह्मन्वर्णे कस्मिन्प्रतिष्ठितम्।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम्॥ 12-285-31(76663)
भवन्ति कस्माद्भूतानि प्रवर्तन्ते यथा पुनः।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः॥ 12-285-32(76664)
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा।
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि॥ 12-285-33(76665)
इतीदमुक्तः स मुनिस्तदानीं
प्रत्याह यत्तच्छृणु राजसिंह।
मयोच्यमानं पुरुषर्षभ त्व
मनन्यचित्तः सह सोदरीयैः॥ ॥ 12-285-34(76666)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाशीत्यधिकद्विशततमोऽध्यायः॥ 285॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-285-2 देवैर्धर्मादिभिः। जातिं जन्म॥ 12-285-3 सुखसंज्ञिकमिति ध. पाठः॥ 12-285-5 व्रजन्ति येषु न भवमिति ध. पाठः॥ 12-285-7 न चापि मन्यते राजन्नेष धर्मोऽत्रसन्तत इति ध. पाठः॥ 12-285-8 नेशे नेष्टे। ईदृशो यतते देहीति ट.ड. पाठः॥ 12-285-9 यथाञ्जनचयं वायुरिति ड. ध. पाठः॥ 12-285-18 संभवन्ति पुनःपुनरिति झ. पाठः॥ 12-285-23 धीमन्दुष्टप्रलापांस्त्वमिति झ. पाठः। दुष्टप्रलापान् असुरभावविनाशकान् असुरे भूत्वा कथं भाषस इत्यर्थः॥ 12-285-25 गन्धाद्यादानं तदाश्रयोपमर्देन। अवर्धं हिंसितवान्॥ 12-285-26 वैहायसगतिश्चरन्निति झ. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|